bhagvatgita:chapter-1

This translation is older than the original page and might be outdated. See what has changed.

BHAGVAT GITA - CHAPTER-1


श्रीपरमात्मने नमः अथ श्रीमद्भगवद्गीता

*प्रथमोऽध्यायः*

1. धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥१-१॥

2 संजय🤴 उवाच🗣 दृष्ट्वा 👁तु पाण्डवानीकं 🧜‍♂️व्यूढं दुर्योधनस्तदा । आचार्यमुपसंगम्य🏃‍♂️ राजा वचनमब्रवीत् 🗣॥१-२॥

3 पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ १-३॥

4 अत्र शूरा महेष्वासा भीमार्जुनसमा युधि 🙅‍♂️। युयुधानो विराटश्च द्रुपदश्च महारथः🏇 ॥१-४॥

5 धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥१-५॥

6 युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः 🏇॥१-६॥

7 अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥१-७॥

8 भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥१-८॥

9 अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः🙅‍♂️ ॥१-९॥

10 अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१-१०॥

11 अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥१-११॥

12 तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१-१२॥

13 ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥१-१३॥

14 ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१-१४॥

15 पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१-१५॥

16 अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१-१६॥

17 काश्यश्च परमेष्वासः शिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥१-१७॥

18 द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते । सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥१-१८॥

19 स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१-१९॥

20 अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥१-२०॥

21 हृषीकेशं तदा वाक्यमिदमाह महीपते । अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥१-२१॥

22 यावदेतान्निरिक्षेऽहं योद्‌धुकामानवस्थितान् । कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥१-२२॥

23 योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥१-२३॥

24 संजय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥१-२४॥

25 भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥१-२५॥

26 तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् । आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥१-२६॥

27 श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि । तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥१-२७॥

28 कृपया परयाविष्टो विषीदन्निदमब्रवीत् । अर्जुन उवाच दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥१-२८॥

29 सीदन्ति मम गात्राणि मुखं च परिशुष्यति । वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥१-२९॥

30 गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते । न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥१-३०॥

31 निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥१-३१॥

32 न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च । किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥१-३२॥

33 येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥१-३३॥

34 आचार्याः पितरः पुत्रास्तथैव च पितामहाः । मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा ॥१-३४॥

35 एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन । अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥१-३५॥

36 निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन । पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥१-३६॥

37 तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥१-३७॥

38 यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥१-३८॥

39 कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥१-३९॥

40 कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥१-४०॥

41 अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥१-४१॥

42 संकरो नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥१-४२॥

43 दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥१-४३॥

44 उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥१-४४॥

45 अहो बत महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥१-४५॥

46 यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥१-४६॥

47 संजय 🤴उवाच 🗣 एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥


SANSKRIT ENGLISH MEANING HINDI MEANING MANTRAKSHAR
अत्र Here
अथ
अधर्माभिभवात्कृष्ण
अनन्तविजयं
अन्ये
अपर्याप्तं
अपि
अयनेषु
अर्जुन king arjun
अश्वत्थामा king ashwatthama
अस्माकं
अहो
आचार्यमुपसंगम्य guru
आचार्याः guru
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा teacher,brothers,sons
इमेऽवस्थिता
उत्तमौजाश्च uttamauja
उत्सन्नकुलधर्माणां
उत्साद्यन्ते
उपाविशत् sit
उवाच spoke
एतान्न
एतेऽत्र
एव
एवमुक्तो spoke
एवमुक्त्वार्जुनः spoke arjuna
कथं how
कर्णश्च and karna
कर्तुं did
का
काङ्क्षितं desire
काङ्क्षे desire
काशिराजश्च kashiraja
काश्यश्च kashya
किं what
किमकुर्वत what - done
कुन्तीपुत्रो kunti son
कुरुक्षेत्रे kurukshetra
कुरुवृद्धः elder of kuru
कुलं caste
कुलक्षयकृतं caste
कुलक्षये caste
कुलघ्नानां caste
कुलधर्माः caste
कुलधर्माश्च caste
कुलस्त्रियः caste
कुलस्य caste
कृत्स्नमधर्मोऽभिभवत्युत caste
कृपया
कृपश्च
कृष्ण krishna
केशव
कैर्मया
कौन्तेयः
क्षेमतरं
गाण्डीवं
गात्राणि
गुडाकेशेन
गोविन्द
घोषो
घ्नतोऽपि
चापं
चैव
जनार्दन
जातिधर्माः
जायते
ज्ञेयमस्माभिः
ततः
तत्रापश्यत्स्थितान्पार्थः
तदस्माकं
तदा
तस्मान्नार्हा
तस्य
तान्निबोध
तान्ब्रवीमि
तान्समीक्ष्य
तु
तुमुलो
ते
त्यक्तजीविताः
त्रैलोक्यराज्यस्य
त्विदमेतेषां
दध्मौ
दिव्यौ
दुर्बुद्धेर्युद्धे
दुर्योधनस्तदा
दुष्टासु
दृष्ट्वा
दृष्ट्वेमं
देवदत्तं
दोषं
दोषैरेतैः
द्रुपदश्च
द्रुपदो
द्रौपदेयाश्च
द्विजोत्तम
धनञ्जयः
धनानि
धनुरुद्यम्य
धर्मक्षेत्रे
धर्मे
धार्तराष्ट्रस्य
धार्तराष्ट्रा
धार्तराष्ट्राणां
धार्तराष्ट्रान्कपिध्वजः
धार्तराष्ट्रान्नः
धार्तराष्ट्रान्स्वबान्धवान्
धृतराष्ट्र
धृष्टकेतुश्चेकितानः
धृष्टद्युम्नो
नकुलः
नभश्च
नरकायैव
नरकेऽनियतं
नरपुङ्गवः
नष्टे
नानाशस्त्रप्रहरणाः
नायका
निमित्तानि
निहत्य
नु
नो
पणवानकगोमुखाः
पतन्ति
परमेष्वासः
परयाविष्टो
परिदह्यते
परिशुष्यति
पर्याप्तं
पश्यन्ति
पश्यामि
पश्यैतां
पश्यैतान्समवेतान्कुरूनिति
पाञ्चजन्यं
पाण्डवः
पाण्डवश्चैव
पाण्डवानीकं
पाण्डवाश्चैव
पातकम्
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः
पापादस्मान्निवर्तितुम्
पार्थ
पितरः
पितरो
पितामहः
पितामहाः
पितामहान्
पितॄनथ
पुत्रास्तथैव
पुरुजित्कुन्तिभोजश्च
पृथक्पृथक्
पृथिवीं
पृथिवीपते
पौण्ड्रं
पौत्राः
प्रणश्यन्ति
प्रतापवान्
प्रदध्मतुः
प्रदुष्यन्ति
प्रपश्यद्भिर्जनार्दन
प्रवृत्ते
प्राणांस्त्यक्त्वा
प्रियचिकीर्षवः
प्रीतिः
बत
बलं
बहवः
भवतीत्यनुशुश्रुम
भवन्तः
भवान्भीष्मश्च
भवेत्
भारत
भीमकर्मा
भीमाभिरक्षितम्
भीमार्जुनसमा
भीष्मद्रोणप्रमुखतः
भीष्ममेवाभिरक्षन्तु
भीष्माभिरक्षितम्
भेर्यश्च
भोगाः
भोगैर्जीवितेन
भ्रमतीव
मदर्थे
मधुसूदन
मनः
मनुष्याणां
मम
महति
महत्पापं
महाबाहुः
महारथः
महारथः🏇
महारथाः
महाशङ्खं
महीकृते
महीक्षिताम्
महीपते
महेष्वासा
मातुलाः
माधव
माधवः
मामकाः
मामप्रतीकारमशस्त्रं
मित्रद्रोहे
मुखं
मे
मेऽच्युत
यथाभागमवस्थिताः
यदि
यद्यप्येते
यद्राज्यसुखलोभेन
यावदेतान्निरिक्षेऽहं
युद्धविशारदाः🙅‍♂️
युद्धे
युधामन्युश्च
युधि
युधिष्ठिरः
युयुत्सवः
युयुत्सुं
युयुधानो
ये
येषामर्थे
योत्स्यमानानवेक्षेऽहं
योद्धव्यमस्मिन्
योद्‌धुकामानवस्थितान्
रणसमुद्यमे
रणे
रथं
रथोत्तमम्
रथोपस्थ
राजा
राज्यं
राज्येन
रोमहर्षश्च
लुप्तपिण्डोदकक्रियाः
लोभोपहतचेतसः
वचनमब्रवीत्
वयं
वयम्
वर्णसंकरः
वर्णसंकरकारकैः
वा
वाक्यमिदमाह
वार्ष्णेय
वासो
विकर्णश्च
विक्रान्त
विजयं
विनद्योच्चैः
विपरीतानि
विराटश्च
विशिष्टा
विषीदन्निदमब्रवीत्
विसृज्य
वीर्यवान्
वृकोदरः
वेपथुश्च
व्यदारयत्
व्यनुनादयन्
व्यवसिता
व्यवस्थितान्दृष्ट्वा
शक्नोम्यवस्थातुं
शङ्खं
शङ्खान्दध्मुः
शङ्खाश्च
शङ्खौ
शब्दस्तुमुलोऽभवत्
शरीरे
शस्त्रपाणयः
शस्त्रसंपाते
शाश्वताः
शिखण्डी
शूरा
शैब्यश्च
शोकसंविग्नमानसः
श्यालाः
श्रेयोऽनुपश्यामि
श्वशुराः
श्वशुरान्सुहृदश्चैव
श्वेतैर्हयैर्युक्ते
संकरो
संख्ये
संजनयन्हर्षं
संजय
संजय🤴
संज्ञार्थं
संबन्धिनस्तथा
सनातनाः
समवेता
समागताः
समितिंजयः
समुपस्थितम्
सर्व
सर्वशः
सर्वान्बन्धूनवस्थितान्
सर्वे
सर्वेषां
सर्वेषु
सशरं
सह
सहदेवश्च
सहसैवाभ्यहन्यन्त
सात्यकिश्चापराजितः
सिंहनादं
सीदन्ति
सुखानि
सुखिनः
सुघोषमणिपुष्पकौ
सेनयोरुभयोरपि
सेनयोरुभयोर्मध्ये
सैन्यस्य
सौभद्रश्च
सौभद्रो
सौमदत्तिस्तथैव
स्त्रीषु
स्थापय
स्थापयित्वा
स्थितौ
स्यन्दने
स्याज्जनार्दन
स्याम
स्रंसते
स्वजनं
स्वजनमाहवे
स्वजनमुद्यताः
हत्वा
हन्तुं
हन्तुमिच्छामि
हन्युस्तन्मे
हस्तात्त्वक्चैव
हि
हृदयानि
हृषीकेशं
हृषीकेशो
हेतोः
Enter your comment:
F U I I A
 

This topic does not exist yet

You've followed a link to a topic that doesn't exist yet. If permissions allow, you may create it by clicking on Create this page.

  • bhagvatgita/chapter-1.txt
  • 2022/01/14 09:17
  • brahmantra